|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.48. अध्यायः 048
Mahabharata - Adi Parva - Chapter Topics
वासुकेः तद्भगिन्याश्च संवादः॥ 1 ॥ आस्तीकोत्पत्तिः॥ 2 ॥ तन्नामनिर्वचनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-48-0x(227)(2045)
गतमात्रं तु भर्तारं जरत्कारुरवेदयत्।
भ्रातुः सकाशमागत्य यथातथ्यं तपोधन॥ 1-48-1(2046)
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्।
उवाच भगिनीं दीनां तदा दीनतरः स्वयम्॥ 1-48-2(2047)
वासुकिरुवाच। 1-48-3x(228)
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत्।
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि॥ 1-48-3(2048)
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्।
एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह॥ 1-48-4(2049)
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्।
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः॥ 1-48-5(2050)
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्।
किंतु कार्यगरीयस्त्वात्ततस्त्वाऽहमचूचुदम्॥ 1-48-6(2051)
दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः।
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्॥ 1-48-7(2052)
आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम्।
उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम्॥ 1-48-8(2053)
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत।
आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम्॥ 1-48-9(2054)
जरत्कारुरुवाच। 1-48-10x(229)
पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः।
अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः॥ 1-48-10(2055)
स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः।
उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति॥ 1-48-11(2056)
न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे।
उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः॥ 1-48-12(2057)
इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः।
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्॥ 1-48-13(2058)
सौतिरुवाच। 1-48-14x(230)
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा।
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत॥ 1-48-14(2059)
सान्त्वमानार्थदानैश्च पूजया चारुरूपया।
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः॥ 1-48-15(2060)
ततः प्रववृधे गर्भो महातेजा महाप्रभः।
यथा मोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि॥ 1-48-16(2061)
अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा।
कुमारं देवगर्भाभं पितृमातृभयापहम्॥ 1-48-17(2062)
ववृधे स तु तत्रैव नागराजनिवेशने।
वेदांश्चाधिजगे साङ्गान्भार्गवच्यवनात्मजात्॥ 1-48-18(2063)
चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः।
नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत॥ 1-48-19(2064)
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्।
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्॥ 1-48-20(2065)
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्।
गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः॥ 1-48-21(2066)
भगवानिव देवेशः शूलपाणिर्हिरण्मयः।
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्॥ ॥ 1-48-22(2067)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टचत्वारिंशोऽध्यायः॥ 48 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-48-6 अचूचुदं कार्यसिद्धिं वक्तुं प्रेरितवान्॥ 1-48-10 ममेदं कार्यमुद्दिश्य अस्तीत्युत्तरं दत्तवानिति शेषः॥ 1-48-11 वितथं अनृतं तेन उक्तपूर्वं न स्मरामि। सांपराये संकटे॥ 1-48-17 प्रजज्ञे जनयामास॥ 1-48-22 हिरण्मयः दीप्तिमान्॥ अष्टचत्वारिंशोऽध्यायः॥ 48 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|